नित्यं पिबाम: सुभाषितरसम्
✦ २. मन्त्राः अन्वयः भावार्थः च (ऋग्वेदस्य मन्त्राः)
✦ ३. शब्दार्थ-सारणी (Word Meanings) (संस्कृत, हिन्दी व अंग्रेजी अर्थ)
✦ ४. अवधेयम् (व्याकरणम्) (लोट्-लकारः अस्मद्-युष्मद् च)
✦ ५. अभ्यासः (प्रश्नोत्तराणि १-६)
✦ ६. योग्यताविस्तरः / परियोजनाकार्यम्
१. पाठ-परिचयः (कक्षायां सम्भाषणम्)
छात्रः: नमस्ते आचार्य! अस्माकं विद्यालयस्य क्रीडोत्सवे पादकन्दुक-क्रीडायां वयं विजयं प्राप्तवन्तः।
हिन्दी अर्थ: छात्र: नमस्ते आचार्य (गुरुजी)! हमारे विद्यालय के खेल-महोत्सव में फुटबॉल (पादकन्दुक) के मैच में हमने विजय प्राप्त की है।
आचार्यः: वर्धापनानि, अभिनन्दनं भवताम्। अपि भवन्तः जानन्ति यत् भवतां प्रतिद्वन्द्विनः कथं पराजिताः? मिलित्वा कार्यकरणम्, एकता, परस्परं सामञ्जस्यं च आवश्यकम्। ऋग्वेदे– ‘संज्ञान-सूक्तस्य’ एषः मन्त्रांशः। एतत् ‘सङ्घटन-सूक्तम्’ इत्यपि प्रख्यातम्। आगच्छन्तु वयम् अस्य सूक्तस्य प्रसिद्धान् त्रीन् मन्त्रान् पठामः।
हिन्दी अर्थ: आचार्य: आप सबको बधाइयाँ और अभिनन्दन। क्या आप जानते हैं कि आपके प्रतिद्वंद्वी (विरोधी टीम) कैसे हार गए? मिलकर काम करना, एकता, और आपस में तालमेल बहुत आवश्यक है। ऋग्वेद में 'संज्ञान-सूक्त' का यह मंत्रांश है। इसे 'संगठन-सूक्त' भी कहा जाता है। आइए, हम इस सूक्त के तीन प्रसिद्ध मंत्रों को पढ़ते हैं।
छात्रः: सत्यम् एव उक्तम्। एष एव सन्देशः वेदे ‘संगच्छध्वं संवदध्वम्’ इत्येवं प्रदत्तः।
हिन्दी अर्थ: छात्र: आपने बिल्कुल सत्य कहा। वेदों में भी 'संगच्छध्वं संवदध्वम्' (साथ चलें, साथ बोलें) के रूप में यही संदेश दिया गया है।
छात्रः: आचार्य! कस्मात् वेदात् गृहीतः एष सन्देशः? कः च अस्य अभिप्रायः?
हिन्दी अर्थ: छात्र: आचार्य! यह संदेश किस वेद से लिया गया है? और इसका क्या अर्थ (अभिप्राय) है?
आचार्यः: तर्हि वदन्तु, विजयप्राप्त्यर्थं किं किम् आवश्यकम्?
हिन्दी अर्थ: आचार्य: तो बताइए, विजय प्राप्त करने के लिए क्या-क्या आवश्यक है?
छात्रः: आम्, जानामि आचार्य! अस्माकं दलस्य क्रीडकेषु परस्परं सम्यक् सामञ्जस्यम् आसीत्, किन्तु विपक्षि-दले तत् नासीत्।
हिन्दी अर्थ: छात्र: हाँ, मैं जानता हूँ आचार्य! हमारे दल (टीम) के खिलाड़ियों में आपस में अच्छा तालमेल (सामंजस्य) था, किन्तु विपक्षी दल में वह नहीं था।
छात्रः: सत्यम् आचार्य! तस्य दलस्य क्रीडकेषु परस्परं मनोभेदः द्वेषभावः च आसीत्। ते अन्योन्यं सहयोगं न कृतवन्तः।
हिन्दी अर्थ: छात्र: सत्य है आचार्य! उस दल के खिलाड़ियों में आपस में मनमुटाव (मनोभेद) और द्वेष की भावना थी। उन्होंने एक-दूसरे का सहयोग नहीं किया।
आचार्यः: प्राचीन-भारतीयज्ञान-परम्परायां ‘वेदः साक्षात् ब्रह्ममुखात् निःसृता पवित्रतमा दैवी वाक्’ इति मन्यते। वेदस्य चत्वारः संहिताः सन्ति – ऋग्वेदः, यजुर्वेदः, सामवेदः, अथर्ववेदः चेति। इमे वेदाः अद्य विश्वस्य प्राचीनतम-साहित्य-रूपेण विद्वद्भिः मन्यन्ते। भवन्तः सर्वे स्नात्वा, शुद्धवस्त्राणि परिधाय, पादत्राणं बहिः स्थापयित्वा, अस्यां प्रार्थनासभायां समुपस्थिताः सन्ति। अतः आगच्छन्तु, प्रणामाञ्जलिं कृत्वा, नेत्रे मीलयित्वा, एकाग्रचित्तेन, समवेतस्वरेण च वेदमन्त्राणाम् उच्चारणं कुर्मः —
हिन्दी अर्थ: आचार्य: प्राचीन भारतीय ज्ञान परम्परा में 'वेद साक्षात् ब्रह्मा के मुख से निकली हुई सबसे पवित्र ईश्वरीय वाणी' माने जाते हैं। वेदों की चार संहिताएँ हैं - ऋग्वेद, यजुर्वेद, सामवेद और अथर्ववेद। ये वेद आज विद्वानों द्वारा विश्व के सबसे प्राचीन साहित्य के रूप में माने जाते हैं। आप सभी स्नान करके, शुद्ध वस्त्र पहनकर और जूतों को बाहर रखकर, इस प्रार्थना सभा में उपस्थित हुए हैं। इसलिए आइए, हाथ जोड़कर (प्रणामाञ्जलि करके), आँखें बंद करके, एकाग्रचित्त होकर और एक साथ मिलकर (समवेत स्वर में) वेद मंत्रों का उच्चारण करते हैं —
२. मन्त्राः अन्वयः भावार्थः च
✦ मन्त्रः १
संगच्छध्वं संवदध्वं सं वो मनांसि जानताम्।
देवा भागं यथा पूर्वे संजानाना उपासते॥१॥
हिन्दी अर्थ: (हे मनुष्यों!) तुम सब साथ मिलकर चलो, एक साथ (प्रेमपूर्वक) बोलो, और तुम्हारे मन एक समान होकर सोचें। जिस प्रकार प्राचीन काल में देवताओं ने एकमत होकर अपने-अपने (यज्ञ) भाग को ग्रहण किया था, उसी प्रकार तुम भी मिलजुलकर कार्य करो।
पदच्छेदः: सङ्गच्छध्वम् संवदध्वम् सम् वः मनांसि जानताम् देवाः भागम् यथा पूर्वे सञ्जानानाः उपासते।
अन्वयः: (यूयम्) सङ्गच्छध्वं संवदध्वं वः मनांसि सञ्जानताम्। यथा पूर्वे देवाः भागं सञ्जानानाः उपासते।
(यथा पूर्वे) यथा सृष्टेः प्रारम्भकाले, (देवाः) ब्रह्मणा सृष्टाः अग्नि-वायु-आदित्यादयः ब्रह्माण्डीय-शक्तयः (भागं) सृष्टि-निर्माण-यज्ञस्य साफल्यार्थं स्वं स्वं कर्तव्यं स्वीकृत्य, (संजानानाः) परस्परम् उत्कृष्ट-समन्वय-पूर्वकं (उपासते) स्वं स्वं कर्म निरवहन्। तथैव यूयं मनुष्याः अपि स्वस्य कुटुम्बस्य, दलस्य, लोकस्य च प्रगतये नित्यं संभूय स्व-स्व-कर्तव्यस्य सुचारु निर्वाहं कुरुत। इत्थं यूयं सर्वे वैमनस्यं परित्यज्य ऐक्यभावेन जीवत, तथा सर्वे अभीष्टफलानि च प्राप्नुत।
✦ मन्त्रः २
समानो मन्त्रः समितिः समानी समानं मनः सह चित्तमेषाम्।
समानं मन्त्रमभिमन्त्रये वः समानेन वो हविषा जुहोमि॥२॥
हिन्दी अर्थ: तुम सबकी मन्त्रणा (विचार) एक समान हो, तुम्हारी सभा (समिति) एकजुट हो, तुम सबका मन और चित्त (भावनाएँ) एक समान हों। मैं तुम सबको एक समान विचार से अभिमन्त्रित करता हूँ और एक समान हवि (आहुति/प्रार्थना) से यज्ञ करता हूँ।
पदच्छेदः: समानः मन्त्रः समितिः समानी समानम् मनः सह चित्तम् एषाम्। समानम् मन्त्रम् अभिमन्त्रये वः समानेन वः हविषा जुहोमि।
अन्वयः: एषां मन्त्रः समानः, समितिः समानी, मनः समानं, चित्तं सह (अस्तु)। वः समानं मन्त्रम् अभिमन्त्रये वः समानेन हविषा जुहोमि।
✦ मन्त्रः ३
समानी व आकूतिः समाना हृदयानि वः।
समानमस्तु वो मनो यथा वः सुसहासति॥३॥
हिन्दी अर्थ: तुम सबका संकल्प (उद्देश्य) एक समान हो, तुम्हारे हृदय एक समान (आपस में प्रेम से जुड़े हुए) हों। तुम सबका मन एक समान हो, जिससे तुम सभी के बीच बहुत अच्छी एकता और संगठन बना रहे।
पदच्छेदः: समानी वः आकूतिः समाना हृदयानि वः। समानम् अस्तु वः मनः यथा वः सु सह असति।
अन्वयः: (हे मानवाः!) वः आकूतिः समानी (अस्तु)। वः हृदयानि समाना (सन्तु)। यथा वः सु सह असति, (तथा) वः मनः समानम् अस्तु।
(यथा) येन (वः) युष्माकं (सह) सङ्घटनं (सु) शोभनम् उत्कृष्टं च (असति) भवति, तथा (वः मनः) युष्माकं मनः (समानम्) सामञ्जस्ययुतम् एकरूपं च (अस्तु) अस्तु। अनेन एव परिवारे, गणे, समाजे, राष्ट्रे, विश्वे च सुखं, शान्तिः, मैत्रीभावः च विराजते। एतैः मन्त्रैः संघटितरूपेण सहजीवनस्य कृते प्रेरणा लभ्यते। एतेन स्वजीवने लोके च प्रसन्नता, सौमनस्यम्, उत्साहः, आयुः, आरोग्यं, विजयः, समृद्धिः, धर्मः, ज्ञानप्राप्तिः, आत्मतृप्तिः च भवति।
हे मनुजाः! (वः) युष्माकम् (समानं मन्त्रम्) अन्योन्य-मन्त्रणं, संघटित-संकल्पं च (अभिमन्त्रये) अहं संस्करोमि – दिव्यभावेन योजयित्वा प्रकटयामि। तथा च (वः) संघटितानां युष्माकं (समानेन) सामूहिक्या (हविषा) प्रार्थनया (जुहोमि) अहं ज्ञानयज्ञं सम्पादयामि। इत्थम्, ऋषयः महात्मनः च सर्वदा साम्मनस्यपूर्णं सङ्कल्पं मन्त्रणं च दिव्यभावेन योजयित्वा समाजे प्रचारयन्ति, तस्य साफल्यार्थं च परमेश्वरं प्रार्थयन्ते।
३. शब्दार्थ-सारणी (Word Meanings)
| संस्कृत शब्दः | हिन्दी अर्थः | English Meaning |
|---|---|---|
| संगच्छध्वम् | मिलकर चलो | May you walk together |
| संवदध्वम् | सहमतिपूर्वक बोलें | May you speak in one voice |
| समवेतस्वरेण | सम्मिलित ध्वनि से | By chanting in unison |
| मनांसि | मनों को | Minds |
| जानताम् | जानें | May you know |
| देवाः | सृष्टि की मूलभूत शक्तियाँ | Cosmic forces |
| संजानानाः | एक विचार वाले होकर | Being amicable |
| उपासते | श्रद्धापूर्वक कर्तव्य निर्वहण | Devotedly performing |
| अभ्युद्युयम् | लौकिक उन्नति | Elevation and prosperity |
| मन्त्रः | विचारः / चिन्तन | Contemplation |
| समितिः | समान प्राप्ति / सिद्धि | Common resolutions |
| वः | तुम्हारे | For you |
| अभिमन्त्रये | अभिमन्त्रित करके प्रचारित करता हूँ | (I) Consecrate and propagate |
| हविषा | प्रार्थना पूर्वक यज्ञाहुति द्वारा | By oblatory prayers |
| जुहोमि | दिव्य यज्ञ कर्म को साधता/ती हूँ | Performing Yajña & divine offerings |
| आकूतिः | संकल्प | Resolution |
| सु सह असति | सुसङ्घटित हो | May you be united |
| संहिता | मूल वैदिक मन्त्र पाठ | Original Vedic text |
| ब्रह्मणा | सृष्टि के निर्माता परमात्मा के द्वारा | By the creator of the universe |
| निरवहन् | निर्वाह किया | Took responsibility |
४. अत्र इदम् अवधेयम् (व्याकरणम्)
✦ १. गम्-धातुः (परस्मैपदम् / आत्मनेपदम्)
सामान्यतया गम्-धातुः परस्मैपदी अस्ति। यदा ‘सम्’ इति उपसर्गयुक्तः गम्-धातुः भवति तदा तस्य आत्मनेपदरूपाणि भवन्ति।
यथा – गम् + ति = गच्छति।
सम् + गच्छति = सङ्गच्छते।
✦ २. गम्-धातोः लोट्-लकारस्य रूपाणि
परस्मैपदम्
| पुरुषः | एकवचनम् | द्विवचनम् | बहुवचनम् |
|---|---|---|---|
| प्रथमपुरुषः | गच्छतु | गच्छताम् | गच्छन्तु |
| मध्यमपुरुषः | गच्छ | गच्छतम् | गच्छत |
| उत्तमपुरुषः | गच्छानि | गच्छाव | गच्छाम |
आत्मनेपदम्
| पुरुषः | एकवचनम् | द्विवचनम् | बहुवचनम् |
|---|---|---|---|
| प्रथमपुरुषः | संगच्छताम् | संगच्छेताम् | संगच्छन्ताम् |
| मध्यमपुरुषः | संगच्छस्व | संगच्छेथाम् | संगच्छध्वम् |
| उत्तमपुरुषः | संगच्छै | संगच्छावहै | संगच्छामहै |
लोट्-लकारः आज्ञार्थे, आमन्त्रणार्थे, आशीर्वादार्थे च भवति।
✦ ३. अस्मद्-युष्मद्-शब्दयोः वैकल्पिकरूपाणि
द्वितीया-चतुर्थी-षष्ठी-विभक्तिषु वैकल्पिकरूपाणि भवन्ति।
अस्मद्:
द्वितीया: माम् / मा (शाधि मां प्रपन्नम् / शाधि मा प्रपन्नम्)
चतुर्थी: मह्यम् / मे (देहि मह्यं वरम् / देहि मे वरम्)
षष्ठी: मम / मे (सर्वं मम देवदेव / सर्वं मे देवदेव)
युष्मद्:
द्वितीया: त्वाम् / त्वा (अहं त्वां मोक्षयिष्यामि / अहं त्वा मोक्षयिष्यामि)
चतुर्थी: तुभ्यम् / ते (नमः तुभ्यम् / नमः ते)
षष्ठी: तव / ते (शिष्यः तव अहम् / शिष्यः ते अहम्)
५. अभ्यासः
२. अधोलिखितानां प्रश्नानाम् उत्तराणि पूर्णवाक्येन लिखत:
• (क) सर्वेषां मनः कीदृशं भवेत्?
➔ सर्वेषां मनः समानं सौमनस्यपूर्णम् अस्तु।
• (ख) सङ्गच्छध्वं संवदध्वम् इत्यस्य कः अभिप्रायः?
➔ सङ्गच्छध्वं संवदध्वम् इत्यस्य अभिप्रायः अस्ति यत् सर्वे मिलित्वा गच्छेयुः एकस्वरेण वदेयुः च।
• (ग) सर्वे किं परित्यज्य ऐक्यभावेन जीवेयुः?
➔ सर्वे वैमनस्यं परित्यज्य ऐक्यभावेन जीवेयुः।
• (घ) अस्मिन् पाठे का प्रेरणा अस्ति?
➔ अस्मिन् पाठे सङ्घटितरूपेण सहजीवनस्य कृते प्रेरणा अस्ति।
३. रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत:
• (क) परमेश्वरः सर्वत्र व्याप्तः अस्ति। ➔ कः सर्वत्र व्याप्तः अस्ति?
• (ख) वयम् ईश्वरं नमामः। ➔ वयम् कं नमामः?
• (ग) वयम् ऐक्यभावेन जीवामः। ➔ वयम् केन / कथं जीवामः?
• (घ) ईश्वरस्य प्रार्थनया शान्तिः प्राप्यते। ➔ कस्य प्रार्थनया शान्तिः प्राप्यते?
• (ङ) अहं समाजाय श्रमं करोमि। ➔ अहं कस्मै श्रमं करोमि?
• (च) अयं पाठः ऋग्वेदात् सङ्कलितः। ➔ अयं पाठः कस्मात् सङ्कलितः?
• (छ) वेदस्य अपरं नाम श्रुतिः। ➔ कस्य अपरं नाम श्रुतिः?
• (ज) मन्त्राः वेदेषु भवन्ति। ➔ मन्त्राः केषु भवन्ति?
४. पट्टिकातः शब्दान् चित्वा अधोलिखितेषु मन्त्रेषु रिक्तस्थानानि पूरयत:
(पट्टिका: संवदध्वं, समितिः, आकूतिः, भागं, मनः, हृदयानि, जानाना, समानं, मनो, हविषा, सुसहासति, मनांसि)
(क) सङ्गच्छध्वं संवदध्वं सं वो मनांसि जानताम्।
देवा भागं यथा पूर्वे संजानाना उपासते।
(ख) समानो मन्त्रः समितिः समानी समानं मनः सह चित्तमेषाम्।
समानं मन्त्रमभिमन्त्रये वः समानेन वो हविषा जुहोमि।
(ग) समानी व आकूतिः समाना हृदयानि वः।
समानमस्तु वो मनो यथा वः सुसहासति।
५. पाठे प्रयुक्तान् शब्दान् भावानुसारं परस्परं योजयत:
| (क) संगच्छध्वम् | ➔ मिलित्वा चलत |
| (ख) संवदध्वम् | ➔ एकस्वरेण वदत |
| (ग) मनः | ➔ चित्तम् |
| (घ) उपासते | ➔ सेवन्ते |
| (ङ) वसूनि | ➔ धनानि |
| (च) विश्वानि | ➔ समस्तानि |
| (छ) आकूतिः | ➔ सङ्कल्पः |
६. लट्-लकारस्य वाक्यानि लोट्-लकारेण परिवर्तयत:
• (क) बालकाः हसन्ति ➔ बालकाः हसन्तु
• (ख) युवां तत्र गच्छथः ➔ युवां तत्र गच्छतम्
• (ग) यूयं धावथ ➔ यूयं धावत
• (घ) आवां लिखावः ➔ आवां लिखाव
• (ङ) वयं पठामः ➔ वयं पठाम
६. योग्यताविस्तरः / परियोजनाकार्यम्
✦ योग्यताविस्तरः
१. वेदाः – ऋग्वेदः, यजुर्वेदः, सामवेदः, अथर्ववेदः।
२. ब्राह्मणानि – ऐतरेयः, शतपथः, सामविधानं, गोपथः, इत्यादयः।
३. उपनिषदः (प्रसिद्धाः) – ईशः, केन, कठः, प्रश्नः, मुण्डकः, माण्डूक्यः, ऐतरेयः, तैत्तिरीयः, छान्दोग्यः, बृहदारण्यकः, इत्यादयः।
४. उपवेदाः – आयुर्वेदः, धनुर्वेदः, गान्धर्ववेदः, अर्थवेदः / स्थापत्यवेदः।
५. वेदोपाङ्गानि / षड्-दर्शनानि – न्यायः, वैशेषिकं, साङ्ख्यं, योगः, पूर्व-मीमांसा, उत्तर-मीमांसा (वेदान्तः)।
६. वेदाङ्गानि – शिक्षा, व्याकरणं, छन्दः, निरुक्तं, ज्योतिषं, कल्पः।
ऋग्वेदः —
ऋग्वेदे मन्त्राणां सङ्ख्या – दश सहस्राणि, पञ्च शतानि, द्विपञ्चाशत् च (१०,५५२) मन्त्राः सन्ति।
अस्य ग्रन्थस्य विभजनं द्विधा भवति —
१. मण्डलक्रमः – (१० मण्डलानि, ८५ अनुवाकाः, १,०२८ सूक्तानि)
२. अष्टकक्रमः – (८ अष्टकाः, प्रत्यष्टकम् ८ अध्यायाः, आहत्य ६४ अध्यायाः)
अस्य पाठस्य आधारः – ऋग्वेदस्य अन्तिमस्य दशम-मण्डलस्य, अन्तिमम् एकशताधिक-एकनवतितमं (१०. १९१) सूक्तम् अस्ति, यत् ‘संज्ञान-सूक्तम्’, ‘सङ्घटन-सूक्तम्’ वेति नामभ्यां प्रसिद्धम् अस्ति।

