NCERT Class 8 Sanskrit Deepakam Chapter 5 – गीता सुगीता कर्तव्या | Summary, Question Answers

Sooraj Krishna Shastri
By -
0

१. पाठ-परिचयः

कुरुक्षेत्रे श्रीगीता-जयन्ती-महोत्सवः आचरितः । तत्र बहवः जनाः अगच्छन्। रमेशः अपि स्वजनकेन सह तत्र गतवान्। कथावाचकः गीतायाः विषये वर्णयति स्म −

हिन्दी अर्थ: कुरुक्षेत्र में श्रीगीता-जयन्ती-महोत्सव मनाया गया। वहाँ बहुत से लोग गए। रमेश भी अपने पिता के साथ वहाँ गया। कथावाचक गीता के विषय में वर्णन कर रहे थे -

गीता सुगीता कर्तव्या किमन्यैः शास्त्रविस्तरैः ।
या स्वयं पद्मनाभस्य मुखपद्माद्विनिःसृता ॥

हिन्दी अर्थ: गीता का भली-भाँति गान (अध्ययन) करना चाहिए, अन्य शास्त्रों के विस्तार से क्या लाभ? क्योंकि यह स्वयं भगवान विष्णु (पद्मनाभ) के मुखकमल से निकली है।

इदं श्रुत्वा रमेशः पितरम् अपृच्छत् – “पितः! गीता का? कथं सुगीता कर्तव्या ?”

हिन्दी अर्थ: यह सुनकर रमेश ने पिता से पूछा - "पिताजी! गीता क्या है? इसका भली-भांति कैसे गान (अध्ययन) करना चाहिए?"

पिता – पुत्र! बहुभ्यः वर्षेभ्यः पूर्वं कुरुक्षेत्रे कौरवाणां पाण्डवानां च मध्ये सङ्ग्रामः अभवत्। तस्मिन् युद्धे स्वबान्धवान् दृष्ट्वा अर्जुनः युद्धं कर्तुं न इच्छति स्म । तदा भगवान् श्रीकृष्णः युद्धपराङ्मुखम् अर्जुनं कर्तव्यपालनार्थम् उपदिष्टवान्। श्रीकृष्णस्य उपदेशः एव श्रीमद्भगवद्गीता अस्ति । गीतायाम् अमृततुल्याः उपदेशाः सन्ति ।

हिन्दी अर्थ: पिता - पुत्र! बहुत वर्षों पूर्व कुरुक्षेत्र में कौरवों और पाण्डवों के बीच युद्ध हुआ था। उस युद्ध में अपने बन्धु-बान्धवों को देखकर अर्जुन युद्ध नहीं करना चाहता था। तब भगवान श्रीकृष्ण ने युद्ध से विमुख अर्जुन को कर्तव्य पालन के लिए उपदेश दिया था। श्रीकृष्ण का उपदेश ही श्रीमद्भगवद्गीता है। गीता में अमृत के समान उपदेश हैं।

रमेशः – तर्हि सुगीता कर्तव्या इत्यस्य कः आशयः?

हिन्दी अर्थ: रमेश - तो फिर 'सुगीता कर्तव्या' (भली-भांति गान करना चाहिए) इसका क्या आशय (अर्थ) है?

पिता – अस्य आशयः अस्ति यत् गीतायाः अभ्यासः सम्यक् रूपेण करणीयः । गीता उत्तमभावेन पठितव्या । कार्यक्षेत्रे जीवनक्षेत्रे च गीतायाः उपदेशाः अनुपालनीयाः । अस्मिन् पाठे वयं श्रीमद्भगवद्गीतायाः काँश्चन श्लोकान् पठामः । वयं श्लोकान् मिलित्वा गायामः अपि ।

हिन्दी अर्थ: पिता - इसका आशय यह है कि गीता का अभ्यास भली-भांति (अच्छी तरह) करना चाहिए। गीता को उत्तम भाव से पढ़ना चाहिए। कार्यक्षेत्र और जीवन के क्षेत्र में गीता के उपदेशों का पालन करना चाहिए। इस पाठ में हम श्रीमद्भगवद्गीता के कुछ श्लोकों को पढ़ेंगे। हम सब मिलकर श्लोकों को गाएंगे भी।

२. गीता-श्लोकाः (भावार्थः च)

श्लोकः १

दुःखेष्वनुद्विग्नमनाः सुखेषु विगतस्पृहः ।
वीतरागभयक्रोधः स्थितधीर्मुनि रुच्यते ॥ १ ॥

पदच्छेदः: दुःखेषु अनुद्विग्नमनाः सुखेषु विगतस्पृहः वीत-राग-भय-क्रोधः स्थितधीः मुनिः उच्यते ।

अन्वयः: दुःखेषु अनुद्विग्नमनाः सुखेषु विगतस्पृहः वीत-राग-भय-क्रोधः मुनिः स्थितधीः (इति) उच्यते ।

संस्कृत-भावार्थः: यः मनुष्यः आपत्कालेषु उद्वेगं न अनुभवति । यः सुखप्राप्तये अपि निस्पृहः (इच्छारहितः) भवति । यः इच्छा, आसक्तिः, भयः, क्रोधः, इत्येतेभ्यः मुक्तः भवति । सः मौनी पुरुषः स्थितप्रज्ञः भवति ।

हिन्दी अर्थ: जो मनुष्य दुःखों के आने पर उद्विग्न (विचलित) नहीं होता, सुखों की प्राप्ति की इच्छा नहीं रखता, तथा जो आसक्ति, भय और क्रोध से पूरी तरह मुक्त है, वह मननशील (मुनि) स्थिर बुद्धि वाला (स्थितप्रज्ञ) कहा जाता है।

श्लोकः २

क्रोधाद्भवति सम्मोहः सम्मोहात्स्मृतिविभ्रमः ।
स्मृतिभ्रंशाद् बुद्धिनाशो बुद्धिनाशात्प्रणश्यति ॥ २ ॥

पदच्छेदः: क्रोधात् भवति सम्मोहः सम्मोहात् स्मृतिविभ्रमः स्मृतिभ्रंशात् बुद्धिनाशः बुद्धिनाशात् प्रणश्यति ।

अन्वयः: क्रोधात् सम्मोहः भवति । सम्मोहात् स्मृतिविभ्रमः (भवति)। स्मृतिभ्रंशात् बुद्धिनाशः (भवति)। बुद्धिनाशात् (जनः) प्रणश्यति ।

संस्कृत-भावार्थः: मानवस्य यदा क्रोधः भवति तदा क्रोधात् अविवेकः उत्पद्यते । अविवेकात् आत्मानं विस्मरति । किं योग्यं किञ्च अयोग्यम् इति अविचिन्त्य क्रोधात् व्यामोहं प्राप्नोति । यदा अधिकः व्यामोहः भवति तदा मनुष्यस्य स्मृतिः निष्क्रिया नष्टा च भवति । स्मृतेः नाशात् बुद्धिः नश्यति । बुद्धेः नाशात् सः मनुष्यः विनाशं प्राप्नोति ।

हिन्दी अर्थ: क्रोध से अज्ञान (मोह) उत्पन्न होता है, मोह से स्मरण शक्ति भ्रमित हो जाती है। स्मरण शक्ति के नष्ट होने से बुद्धि (ज्ञान) का नाश होता है और बुद्धि के नाश होने से मनुष्य का विनाश हो जाता है।

श्लोकः ३

तद्विद्धि प्रणिपातेन परिप्रश्नेन सेवया ।
उपदेक्ष्यन्ति ते ज्ञानं ज्ञानिनस्तत्त्वदर्शिनः ॥ ३ ॥

पदच्छेदः: तद् विद्धि प्रणिपातेन परिप्रश्नेन सेवया उपदेक्ष्यन्ति ते ज्ञानम् ज्ञानिनः तत्त्वदर्शिनः ।

अन्वयः: तद् प्रणिपातेन सेवया परिप्रश्नेन विद्धि, ते तत्त्वदर्शिनः ज्ञानिनः ज्ञानम् उपदेक्ष्यन्ति ।

संस्कृत-भावार्थः: भगवान् श्रीकृष्णः अर्जुनम् उपदिशति – हे अर्जुन! भवान् गुरोः समीपं गत्वा यथार्थज्ञानं प्राप्तुं प्रयासं करोतु। भवान् विनीतः जिज्ञासुः च भूत्वा गुरोः सेवां करोतु। तत्त्वज्ञानी गुरुः भवते ज्ञानं प्रदास्यति । यतः ये सत्यस्य दर्शनं कृतवन्तः ते एव यथार्थज्ञानिनः भवन्ति ।

हिन्दी अर्थ: भगवान श्रीकृष्ण अर्जुन को उपदेश देते हैं - उस ज्ञान को तू गुरु के पास जाकर प्रणाम करने से, विनम्रतापूर्वक प्रश्न करने से और उनकी सेवा करने से जान। वे तत्त्वदर्शी ज्ञानी महात्मा तुझे उस यथार्थ ज्ञान का उपदेश देंगे।

श्लोकः ४

श्रद्धावाँल्लभते ज्ञानं तत्परः संयतेन्द्रियः ।
ज्ञानं लब्ध्वा परां शान्तिमचिरेणाधिगच्छति ॥ ४ ॥

पदच्छेदः: श्रद्धावान् लभते ज्ञानम् तत्परः संयतेन्द्रियः ज्ञानम् लब्ध्वा पराम् शान्तिम् अचिरेण अधिगच्छति ।

अन्वयः: संयतेन्द्रियः तत्परः श्रद्धावान् (मनुष्यः) ज्ञानं लभते । तथा ज्ञानं लब्ध्वा (सः) अचिरेण परां शान्तिम् अधिगच्छति ।

संस्कृत-भावार्थः: यः श्रद्धालुः मनुष्यः दिव्यज्ञानं प्राप्तुं निरन्तरं प्रयासं करोति । तथैव यः मनुष्यः इन्द्रियाणि स्ववशे कृतवान्। सः मनुष्यः दिव्यज्ञानं प्राप्स्यति । तादृशं दिव्यं ज्ञानं प्राप्य सः पुरुषः जीवने अनन्तम् आनन्दं प्राप्नोति ।

हिन्दी अर्थ: अपनी इन्द्रियों को वश में करने वाला, तत्पर और श्रद्धायुक्त मनुष्य ज्ञान को प्राप्त करता है। उस दिव्य ज्ञान को प्राप्त करके वह शीघ्र ही परम शान्ति को प्राप्त कर लेता है।

श्लोकः ५

अद्वेष्टा सर्वभूतानां मैत्रः करुण एव च ।
निर्ममो निरहङ्कारः समदुःखसुखः क्षमी ॥ ५ ॥

पदच्छेदः: अद्वेष्टा सर्वभूतानां मैत्रः करुणः एव च निर्ममः निरहङ्कारः समदुःखसुखः क्षमी ।

अन्वयः: (यः) सर्वभूतानाम् अद्वेष्टा मैत्रः च करुणः एव निर्ममः निरहङ्कारः समदुःखसुखः क्षमी (अस्ति, सः एव मम प्रियः भवति ।)

संस्कृत-भावार्थः: हे अर्जुन ! यः कस्यामपि परिस्थितौ विचलितः न भवति । यः ईर्ष्यारहितः समस्तप्राणिनां कृते मित्रभावयुतः दयालुः च भवति । यः ममत्वरहितः, अहङ्कारविहीनः, सुखदुःखेषु समभावयुतः क्षमाशीलः च भवति तादृशः पुरुषः भगवतः अत्यन्तं प्रियः भक्तः भवति ।

हिन्दी अर्थ: हे अर्जुन! जो सभी प्राणियों से द्वेष न करने वाला, सबका मित्र, दयालु, ममतारहित, अहंकाररहित, सुख-दुःख में समान रहने वाला और क्षमाशील है, (वह भक्त भगवान को अत्यंत प्रिय है)।

श्लोकः ६

सन्तुष्टः सततं योगी यतात्मा दृढनिश्चयः ।
मय्यर्पितमनोबुद्धिर्यो मद्भक्तः स मे प्रियः ॥ ६ ॥

पदच्छेदः: सन्तुष्टः सततम् योगी यतात्मा दृढनिश्चयः मयि अर्पितमनोबुद्धिः यः मद्भक्तः सः मे प्रियः ।

अन्वयः: यः योगी सततम् सन्तुष्टः यतात्मा दृढनिश्चयः मयि (च) अर्पितमनोबुद्धिः (भवति) सः मद्भक्तः मे प्रियः (भवति) ।

संस्कृत-भावार्थः: हे पार्थ ! यः निरन्तरं सन्तुष्टः भवति । अर्थात् कस्यापि वस्तुनः अभावात् कदापि असन्तुष्टः न भवति । यः मनः इन्द्रियाणि च विजित्य संयमी भवति । यः स्वबुद्ध्या परमेश्वरस्य स्वरूपं स्थिरीकरोति । यश्च मनः बुद्धिं च ईश्वरे समर्पयति । सः मनुष्यः मम अतीव प्रियतमः भक्तः भवति ।

हिन्दी अर्थ: जो योगी निरन्तर सन्तुष्ट रहता है, मन और इन्द्रियों को वश में रखने वाला (संयमी) है, दृढ़ निश्चय वाला है और जिसने अपना मन और बुद्धि मुझमें (ईश्वर में) अर्पित कर दिए हैं, वह मेरा भक्त मुझे अत्यंत प्रिय है।

श्लोकः ७

यस्मान्नोद्विजते लोकः लोकान्नोद्विजते च यः ।
हर्षामर्षभयोद्वेगैर्मुक्तो यः स च मे प्रियः ॥ ७ ॥

पदच्छेदः: यस्मात् न उद्विजते लोकः लोकात् न उद्विजते च यः हर्ष-अमर्ष-भय-उद्वेगैः मुक्तः यः सः च मे प्रियः ।

अन्वयः: यस्मात् लोकः न उद्विजते, यः च लोकात् न उद्विजते, यः च हर्ष-अमर्ष-भय-उद्वेगैः मुक्तः सः मे प्रियः (भवति) ।

संस्कृत-भावार्थः: हे अर्जुन! यस्मात् मनुष्यात् कोऽपि मनुष्यः प्राणी वा उद्विग्नः न भवति । यश्च मनुष्यः अन्यस्मात् जनात् प्राणिनः वा उद्विग्नः न भवति । यश्च हर्षेण, ईर्ष्यया, भीत्या, चिन्तया च रहितः भवति । सः मम अतीव प्रियः भक्तः भवति ।

हिन्दी अर्थ: जिससे कोई भी प्राणी उद्वेग (कष्ट/भय) को प्राप्त नहीं होता, और जो स्वयं भी किसी प्राणी से उद्वेग को प्राप्त नहीं होता; तथा जो हर्ष (प्रसन्नता), ईर्ष्या, भय और उद्वेग आदि से पूर्णतः मुक्त है, वह भक्त मुझे प्रिय है।

श्लोकः ८

अनुद्वेगकरं वाक्यं सत्यं प्रियहितं च यत् ।
स्वाध्यायाभ्यसनं चैव वाङ्मयं तप उच्यते ॥ ८ ॥

पदच्छेदः: अनुद्वेगकरम् वाक्यम् सत्यम् प्रियहितम् च यत् स्वाध्यायाभ्यसनम् च एव वाङ्मयम् तपः उच्यते ।

अन्वयः: यत् वाक्यम् अनुद्वेगकरं सत्यं प्रियहितं च (तथा) स्वाध्यायाभ्यसनं च एव वाङ्मयं तपः उच्यते ।

संस्कृत-भावार्थः: यत् अनुद्वेगकरं (भाषणम् उद्वेगं न जनयेत्), सत्यं, प्रियकरं, हितकरं, च भाषणं स्यात्, तत् वाङ्मयं तपः इति कथ्यते । शास्त्रादीनां स्वाध्यायः, तेषाम् अभ्यासः च वाचिकं तपः कथ्यते । तथा स्वाध्यायः अभ्यासश्चापि यथाविधि वाङ्मयं तपः इति उच्यते ।

अतः विद्यार्थिभिः स्मरणीयं यत्—
प्रियवाक्यप्रदानेन सर्वे तुष्यन्ति जन्तवः,
तस्मात् तदेव वक्तव्यं वचनेन का दरिद्रता ।

हिन्दी अर्थ: जो वाक्य किसी को उद्वेग (कष्ट) न देने वाला हो, सत्य, प्रिय और हितकारी हो, तथा जो शास्त्रों का पठन-पाठन (स्वाध्याय) और अभ्यास है, वही वाणी का तप कहा जाता है। अतः विद्यार्थियों को यह स्मरण रखना चाहिए कि— मीठे वचन बोलने से सभी जीव संतुष्ट होते हैं, इसलिए मीठा ही बोलना चाहिए, बोलने में कैसी दरिद्रता!

३. शब्दार्थ-सारणी (Word Meanings)

संस्कृत शब्दः हिन्दी अर्थः English Meaning
महोत्सवःपर्व / त्यौहारFestival
कथावाचकःकथा वाचकThe narrator / the proponent
सुगीताअच्छी तरह से गाई जाने वालीMelodious Song
युद्धपराङ्मुखम्युद्ध विमुखThe war-averse
अमृततुल्याःअमृत के समानLike nectar
अनुद्विग्नमनाःअविचलित मन वालाPerson of tranquil mind
विगतस्पृहःआसक्‍ति रहितDetached
वीत-राग-भय-क्रोधःवासना, भय और क्रोध से रहितFree from attachment, fear and anger
स्थितधीःस्थिर मन वालाSteady minded
मुनिःतपस्वीThe sage
सम्मोहःकर्तव्य अकर्तव्य का अविवेकDelusion
स्मृतिविभ्रमःस्मरणशक्‍ति का नाश होनाLoss / failure of memory
श्रद्धावान्श्रद्धा से युक्‍तDevoted
संयतेन्द्रियःसंयमित इन्द्रियों वालाOne who has controlled his senses
प्रणिपातेनप्रणाम के द्वाराBy bowing down / by salutation
परिप्रश्नेनप्रश्‍नों के द्वाराBy questioning (with humility)
उपदेक्ष्यन्तिउपदेश देंगेThey will preach
तत्त्वदर्शिनःतत्त्वज्ञानीThose who have realized the Truth
विद्धितुम जानो(Let You) Know
अद्वेष्टाद्वेष न करने वालाOne who never hates
सर्वभूतानांसभी प्राणियों काOf all beings
मैत्रःमित्रता के भाव वालाFriendly
करुणःकरुणावान्Compassionate
निर्ममःममत्व कर भावना से विहीनFree from the sense of ‘mine’
निरहङ्कारःअहंकार रहितEgoless
समदुःखसुखःसुख और दुःख में समान भाव वालाSame in pain and pleasure
क्षमीक्षमाशीलEndowed with forbearance
उद्विजतेउद्विग्न होता हैAgitated
लोकःसंसारThe world
हर्षामर्षभयोद्वेगैःहर्ष, क्रोध, भय और चिंताओं सेFrom joy, impatience, fear and anxiety
यतात्मायति, जिसने इन्द्रियों को अपने नियन्त्रण में कर लिया हैSelf – Restrained
दृढनिश्चयःदृढ़ निश्‍चय वालाFirmly resolute / determined
अर्पितमनोबुद्धिःमन और बुद्धि को अर्पित करने वालाOne who has offered his mind and intellect
अनुद्वेगकरम्व्याकुलता न करने वालाUnoffending / non-agitating
अभ्यसनंअभ्यासPractice
वाङ्मयम्वाचिकVerbal penance

४. अत्र इदम् अवधेयम् (व्याकरणम्)

सप्तमी-पञ्चमी विभक्तेः प्रयोगः

आधारे सप्तमी विभक्तेः प्रयोगः भवति । (आधार में सप्तमी विभक्ति का प्रयोग होता है।)

यथा – उत्पीठिकायां पुस्तकम् अस्ति । दुःखेषु अनुद्विग्नमनाः भवेत्। सुखेषु विगतस्पृहः भवेत्।

उत्पत्ति-अर्थे कारणार्थे वा पञ्चमी-विभक्तेः प्रयोगः भवति । (उत्पत्ति अथवा कारण के अर्थ में पञ्चमी विभक्ति का प्रयोग होता है।)

यथा – क्रोधात् सम्मोहः भवति । सम्मोहात् स्मृतिविभ्रमः भवति । स्मृतिभ्रंशात् बुद्धिनाशः भवति ।

५. अभ्यासः (अभ्यासात् जायते सिद्धिः)

१. अधोलिखितानां प्रश्नानाम् एकपदेन उत्तरं लिखत—

(क) श्रद्धावान् जनः किं लभते ?
ज्ञानम्

(ख) कस्मात् सम्मोहः जायते ?
क्रोधात्

(ग) सम्मोहात् किं जायते ?
स्मृतिविभ्रमः

(घ) अर्जुनाय गीतां कः उपदिष्टवान् ?
श्रीकृष्णः

(ङ) हर्षामर्षभयोद्वेगैः मुक्तः नरः कस्य प्रियः भवति ?
भगवतः (श्रीकृष्णस्य)

२. पूर्णवाक्येन उत्तरं लिखत—

(क) कीदृशं वाक्यं वाङ्मयं तपः उच्यते ?
यद् वाक्यम् अनुद्वेगकरं सत्यं प्रियहितं च (तथा) स्वाध्यायाभ्यसनं च एव वाङ्मयं तपः उच्यते।

(ख) कीदृशः जनः स्थितधीः उच्यते ?
यः दुःखेषु अनुद्विग्नमनाः सुखेषु विगतस्पृहः वीत-राग-भय-क्रोधः मुनिः (भवति सः) स्थितधीः उच्यते।

(ग) जनः कथं प्रणश्यति ?
क्रोधात् सम्मोहः भवति, सम्मोहात् स्मृतिविभ्रमः, स्मृतिभ्रंशात् बुद्धिनाशः, बुद्धिनाशात् जनः प्रणश्यति।

(घ) जनः कथम् उत्तमां शान्तिं प्राप्नोति ?
ज्ञानं लब्ध्वा अचिरेण परां शान्तिम् अधिगच्छति।

(ङ) उपदेशप्राप्तये त्रयः उपायाः के भवन्ति ?
प्रणिपातेन, परिप्रश्नेन, सेवया च।

३. कोष्ठके दत्तानि पदानि उपयुज्य वाक्यानि रचयत—
(सेवया, स्मृतिविभ्रमः, योगी, वाङ्मयं, स्थितधीः)

(क) अनुद्वेगकरं सत्यं प्रियहितं च वाक्यं वाङ्मयं तपः उच्यते ।

(ख) सततं सन्तुष्टः दृढनिश्चयः च योगी भवति ।

(ग) अनुद्विग्नमनाः मुनिः स्थितधीः उच्यते ।

(घ) तद् आत्मज्ञानं प्रणिपातेन परिप्रश्नेन सेवया च विद्धि ।

(ङ) सम्मोहात् स्मृतिविभ्रमः भवति ।

४. अधोलिखितानि पदानि उपयुज्य वाक्यानि रचयत—

(क) उच्यते − मुनिः स्थितधीः उच्यते।

(ख) च − रामः श्यामः च गच्छतः।

(ग) न − अर्जुनः युद्धं कर्तुं न इच्छति स्म।

(घ) लब्ध्वा − ज्ञानं लब्ध्वा शान्तिम् अधिगच्छति।

(ङ) कुर्यात् − भोजनं कुर्यात्।

५. पाठानुसारं समुचितेन पदेन श्लोकं पूरयत—

(क) श्रद्धावाँल्लभते ज्ञानं तत्परः संयतेन्द्रियः
(ख) स्वाध्यायाभ्यसनं चैव वाङ्मयं तप उच्यते ।
(ग) सन्तुष्टः सततं योगी यतात्मा दृढनिश्चयः
(घ) क्रोधाद् भवति सम्मोहः सम्मोहात्स्मृतिविभ्रमः ।
(ङ) तद्विद्धि प्रणिपातेन परिप्रश्नेन सेवया ।

६. उदाहरणानुसारं पदानि स्त्रीलिङ्गे परिवर्तयत—

यथा – श्रद्धावान् ➔ श्रद्धावती, बुद्धिमान् ➔ बुद्धिमती

(क) गुणवान् ➔ गुणवती

(ख) आयुष्मान् ➔ आयुष्मती

(ग) क्षमावान् ➔ क्षमावती

(घ) ज्ञानवान् ➔ ज्ञानवती

(ङ) श्रीमान् ➔ श्रीमती

७. समुचितेन पदेन सह स्तम्भौ मेलयत—

1. सर्वभूतानाम् ➔ सर्वेषां प्राणिनाम्

2. अनुद्विग्नमनाः ➔ यस्य मनः विचलितं न भवति

3. स्थितधीः ➔ स्थिरमतिमान्

4. परिप्रश्नेन ➔ पुनः पुनः प्रश्नकरणेन

5. संयतेन्द्रियः ➔ इन्द्रियसंयमी

८. श्रीमद्भगवद्गीतायाः विषये पञ्च वाक्यानि लिखत—

१. श्रीमद्भगवद्गीता श्रीकृष्णस्य उपदेशः अस्ति।

२. अत्र अष्टादश अध्यायाः सन्ति।

३. गीतायाम् अमृततुल्याः उपदेशाः सन्ति।

४. गीतायाः अभ्यासः सम्यक् रूपेण करणीयः।

५. अत्र सप्तशतं (७००) श्लोकाः सन्ति।

६. योग्यताविस्तरः / परियोजनाकार्यम्

श्रीमद्भगवद्गीता

भगवतः श्रीकृष्णस्य अर्जुनाय प्रदत्तानां जीवनमूल्यसम्बद्धानाम् उपदेशानां सङ्कलनात्मकः ग्रन्थः अस्ति श्रीमद्भगवद्गीता । महर्षिः वेदव्यासः महाभारतस्य भीष्मपर्वणि श्रीमद्भगवद्गीतां वर्णितवान्। गीतायाम् अष्टादश अध्यायाः सप्तशतं (७००) श्लोकाः च सन्ति ।


अष्टादश अध्यायाः:

१. अर्जुनविषादयोगः (सैन्य-निरीक्षणम्)
२. साङ्ख्ययोगः (गीतायाः सारः)
३. कर्मयोगः (कर्मणः महत्त्वम्)
४. ज्ञान-कर्म-संन्यासयोगः (दिव्यज्ञानम्)
५. कर्मसंन्यासयोगः (कर्म-वैराग्य-योगः)
६. आत्मसंयमयोगः (ध्यान-योगः)
७. ज्ञान-विज्ञानयोगः (भगवद्ज्ञानस्य प्राप्तिः)
८. अक्षर-ब्रह्मयोगः (भगवतः प्राप्तिः)
९. राजविद्या-राजगुह्ययोगः (परमं गुप्तं ज्ञानम्)
१०. विभूतियोगः (भगवतः ऐश्वर्यम्)
११. विश्वरूप-दर्शनयोगः (विश्वरूपस्य दर्शनम्)
१२. भक्तियोगः (भक्तिभावज्ञानम्)
१3. क्षेत्र-क्षेत्रज्ञ-विभागयोगः (प्रकृतेः पुरुषस्य चेतनायाः च ज्ञानम्)
१४. गुणत्रय-विभागयोगः (प्रकृतेः गुणत्रयस्य वर्णनम्)
१५. पुरुषोत्तमयोगः (विश्वस्य केन्द्ररूपेण ब्रह्मणः वर्णनम्)
१६. दैवासुर-सम्पद्विभागयोगः (दैवी-आसुरी-स्वभावानां वर्णनम्)
१७. श्रद्धात्रय-विभागयोगः (श्रद्धायाः विभागानां वर्णनम्)
१८. मोक्ष-संन्यासयोगः (उपसंहारः, संन्यास-सिद्धि-वर्णनम्)

सरसं गायामः

भगवद्गीता किञ्चिदधीता, गङ्गा-जल-लव-कणिका पीता ।
सकृदपि येन मुरारि समर्चा, तस्य यमः किं कुरुते चर्चाम्॥

कर्तव्यदीक्षां च समत्वशिक्षां, ज्ञानस्य भिक्षां शरणागतिञ्च ।
ददाति गीता करुणार्द्रभूता, कृष्णेन दत्ता जगतां हिताय ॥

परियोजनाकार्यम्

१. कक्षायां श्रीमद्भगवद्गीतानुगुणं ‘स्थितधीः’ इति विषयम् अधिकृत्य ‘मम जीवनलक्ष्यम्’ इत्यस्मिन् विषये परिचर्चां स्थापयतु।

२. विविध-धर्माणां धर्मग्रन्थानां नामानि विलिख्य कस्यचित् एकस्य धर्मग्रन्थस्य विवरणं लिखत ।

एक टिप्पणी भेजें

0 टिप्पणियाँ

एक टिप्पणी भेजें (0)

#buttons=(Ok, Go it!) #days=(20)

Our website uses cookies to enhance your experience. Check Now
Ok, Go it!