Class 8 Deepakam Chapter 11: सन्निमित्ते वरं त्यागः Practice & Answers

Sooraj Krishna Shastri
By -
0

Class 8 Sanskrit छात्रों के लिए सन्निमित्ते वरं त्यागः पाठ का सम्पूर्ण अभ्यास प्रश्न और उत्तर उपलब्ध है। यहाँ आप वाक्य निर्माण, प्रश्नोत्तर, पदच्छेद, सन्धि अभ्यास, और घटनानुसार कथन आदि सभी exercises को step-by-step समझ सकते हैं। इस resource में प्रश्न और उत्तर क्रमबद्ध, स्पष्ट और बिना शब्दों के बदलाव के दिए गए हैं, जिससे छात्र आसानी से अपनी homework, assignments और exam preparation कर सकते हैं। अगर आप Class 8 Sanskrit Deepakam Chapter 11 के exercises को पूरी तरह से समझना चाहते हैं, तो यह page आपके लिए perfect है। 

Class 8 Deepakam Chapter 11: सन्निमित्ते वरं त्यागः Exercise Questions & Answers


१. निम्नलिखितेषु वाक्येषु रक्तवर्णीयानि स्थूलपदानि आधृत्य प्रश्ननिर्माणं कुरुत-

(क) वीरवरो पत्नीं पुत्रं दुहितरञ्च प्राबोधयत् ।
उत्तर: कः पत्नीं पुत्रं दुहितरञ्च प्राबोधयत्?

(ख) ततस्ते सर्वे सर्वमङ्गलायाः आयतनं गताः ।
उत्तर: ततस्ते सर्वे कस्याः आयतनं गताः?

(ग) वीरवरः वर्तनस्य निस्तारं पुत्रोत्सर्गेण अकरोत् ।
उत्तर: वीरवरः वर्तनस्य निस्तारं केन / कथम् अकरोत्?

(घ) राजा स्वप्रासादं प्राविशत् ।
उत्तर: राजा कुत्र प्राविशत्?

(ङ) महीपतिः वीरवराय समग्रकर्णाटप्रदेशम् अयच्छत् ।
उत्तर: महीपतिः कस्मै समग्र कर्णाटप्रदेशम् अयच्छत्?

Class 8 Deepakam Chapter 11: सन्निमित्ते वरं त्यागः questions & Answers
Class 8 Deepakam Chapter 11: सन्निमित्ते वरं त्यागः Practice & Answers


२. अधोलिखितान् प्रश्नान् उत्तरत-

(क) वीरवरः किम् अवर्णयत् ?
उत्तर: वीरवरः अखिलराजलक्ष्मीसंवादम् अवर्णयत् ।

(ख) प्राज्ञः धनानि जीवितञ्च केभ्यः उत्सृजेत् ?
उत्तर: प्राज्ञः धनानि जीवितं च परार्थे उत्सृजेत् ।

(ग) केन सदृशः लोके न भूतो न भविष्यति ?
उत्तर: वीरवरेण सदृशः लोके न भूतो न भविष्यति ।

(घ) का अदृश्या अभवत् ?
उत्तर: भगवती सर्वमङ्गला अदृश्या अभवत् ।

(ङ) सपरिवारः वीरवरः कुत्र गतवान् ?
उत्तर: सपरिवारः वीरवरः स्वगृहं गतवान् ।


३. अधोलिखितेषु वाक्येषु रक्तवर्णीयपदानि केभ्यः प्रयुक्तानि इति उदाहरणानुगुणं लिखत-

उदाहरणम् - धन्यः अहम् स्वामिजीवितरक्षार्थं विनियुक्तः । – शक्तिधराय

(क) भगवति ! न मे प्रयोजनं राज्येन जीवितेन वा ।
उत्तर: नृपाय / राज्ञे

(ख) वत्स! अनेन ते॒ सत्त्वोत्कर्षेण भृत्यवात्सल्येन च परं प्रीतास्मि ।
उत्तर: नृपाय / राज्ञे

(ग) धन्याहं यस्या ईदृशो जनको भ्राता च ।
उत्तर: वीरंवत्यै

(घ) तदेतत्परित्यक्तेन मम राज्येनापि किं प्रयोजनम् ।
उत्तर: नृपस्य/शूद्रकाय/राज्ञे

(ङ) अयम् अपि सपरिवारो जीवतु ।
उत्तर: वीरवराय/राजपुत्राय ।


४. उदाहरणानुसारं अन्वयरूपेण लिखत-

यथा- कृतो मया गृहीतस्वामिवर्तनस्य निस्तारो स्वपुत्रोत्सर्गेण ।

गृहीतस्वामिवर्तनस्य निस्तारो मया स्वपुत्रोत्सर्गेण कृतः ।

(क) नेदानीं राज्यभङ्गस्ते भविष्यति ।
उत्तर: इदानीं ते राज्यभङ्गः न भविष्यति ।

(ख) तेन पातितं स्वशिरः स्वकरस्थखड्गेन ।
उत्तर: तेन स्वकरस्थखड्गेन स्वशिरः पातितम् ।

(ग) तदा ममायुः शेषेणापि जीवतु राजपुत्रो वीरवरः सह पुत्रेण पत्न्या दुहित्रा च ।
उत्तर: तदा ममायुः शेषेणापि राजपुत्रो वीरवरः पुत्रेण पत्न्या दुहित्रा च सह जीवतु ।

(घ) तत्क्षणादेव देवी गताऽदर्शनम् ।
उत्तर: तत्क्षणादेव देवी अदर्शनम् गता ।

(ङ) महीपतिस्तस्मै प्रायच्छत् समग्रकर्णाटप्रदेशं राजपुत्राय वीरवराय ।
उत्तर: महीपति: तस्मै राजपुत्राय वीरवराय समग्र-कर्णाट-प्रदेशं प्रायच्छत् ।

(च) जायन्ते च म्रियन्ते च मादृशाः क्षुद्रजन्तवः ।
उत्तर: मादृशाः क्षुद्रजन्तवः जायन्ते मिय्रन्ते च ।


५. उदाहरणानुगुणम् अधोलिखितानां पदानां पदच्छेदं कुरुत-

यथा-यद्येवमस्मत्कुलोचितम् = यदि-एवम्-अस्मत्-कुलोचितम्

सत्त्वोत्कर्षेण = सत्त्व-उत्कर्षेण

(क) गृहीतस्वामिवर्तनस्य = गृहीत – स्वामि-वर्तनस्य
(ख) निस्तारोपायः = निस्तार – उपायः
(ग) गृह्यतामेष = गृह्यताम्-एषः
(घ) स्वपुत्रोत्सर्गेण = स्वपुत्र – उत्सर्गेण
(ङ) स्वकरस्थखड्गेन = स्वकरस्थ-खड्गेन
(च) तदेतत्परित्यक्तेन = तत्-एतत्-परित्यक्तेन
(छ) स्वशिरश्छेदनार्थमुत्क्षिप्तः = स्वशिरः-छेदनार्थम्-उत्क्षिप्तः
(ज) मद्दर्शनाददृश्यताम् = मत्-दर्शनात् – अदृश्यताम्
(झ) तत्क्षणादेव = तत्-क्षणात्-एव
(ञ) लब्धजीवितः = लब्ध- जीवितः


६. (क) उदाहरणानुगुणं पाठगतानि पदानि अधिकृत्य सन्धियुक्तपवैः रिक्तस्थानानि पूरयत-

यथा - स्व + आवासम् = स्वावासम्

(क) रिक्तस्थान पूरयत्

  1. तत् + श्रुत्वा = तच्छ्रुत्वा
  2. दुहितरम् + च = दुहितरञ्च
  3. धन्यः + अहम् = धन्योऽहम्
  4. जीवितम् + च + एव = जीवितञ्चैव
  5. विलम्बः + तात = विलम्बस्तात
  6. कः + अधुना = कोऽधुना
  7. न + आचरितव्यम् = नाचरितव्यम्
  8. धन्या + अहम् = धन्याहं
  9. निस्तारः + उपायः = निस्ताररुपाय
  10. वीरवरः + अवदत् = वीरवरोऽवदत्
  11. ततः + असौ = ततोऽसौ
  12. ततः + ते = ततस्ते

(ख) सन्धिच्छेदः

  1. शूद्रकोऽपि = शूद्रकः + अपि
  2. पुनर्भूपालेन = पुनः + भूपालेन
  3. महीपतिस्तस्मै = महीपालः + तस्मै
  4. प्रायच्छत् = प्र + अयच्छत्
  5. नृपतिरपि = नृपतिः + अपि
  6. सर्वेषामदृश्य = सर्वेषाम् + अदृश्य
  7. वार्ताऽन्या = वार्ता + अन्याः
  8. राज्यभङ्गस्ते = राज्यभङ्गः + ते
  9. गतिर्गन्तव्या = गतिः + गन्तव्या
  10. इत्युक्त्वा = इति + उक्त्वा
  11. नेदानीं = न + इदानीं
  12. प्रीतास्मि = प्रीता + अस्मि

७. अधोलिखितानि कथनानि कथायाः घटनानुसारं लिखत-

(क) प्रातः राजा वीरवरम् अपृच्छत् – “ह्यः रात्रौ किम् अभवत्?”
(ख) वीरवरेण उक्तम् – “स्वामिन्! न कापि वार्ता। सा नारी अदृश्या अभवत्।”
(ग) भगवती प्रसन्ना अभवत्। भगवत्याः कृपया सर्वे जीवितवन्तः।
(घ) वीरवरो गृहं गत्वा पत्नीं पुत्रं पुत्रीञ्च प्राबोधयत्, सर्वां च वार्ताम् अकथयत्।
(ङ) पितुः वार्तां श्रुत्वा शक्तिधरः प्रसन्नतया स्वस्य समर्पणार्थं सिद्धः अभवत्।
(च) वीरवरः परिवारेण सह सर्वस्वसमर्पणम् अकरोत्।
(छ) सर्वं दृष्ट्वा राजा शूद्रकः अपि सर्वस्व समर्पणार्थं सिद्धः अभवत्।


Class 8 Sanskrit, सन्निमित्ते वरं त्यागः, Sanskrit Questions and Answers, Deepakam Chapter 11, Sanskrit Exercise Solutions, Class 8 Homework Help, Sanskrit Study Material, Sanskrit Chapter 11 Practice

Post a Comment

0 Comments

Post a Comment (0)

#buttons=(Ok, Go it!) #days=(20)

Our website uses cookies to enhance your experience. Check Now
Ok, Go it!